||Sundarakanda ||

|| Sarga 10||( Only Slokas in Devanagari) )

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

हरिः ओम्

सुंदरकांड.
अथ दशमस्सर्गः

तत्र दिव्योपमंमुख्यं स्फाटिकं रत्नभूषितम्।
अवेक्षमाणो हनुमान् ददर्श शयनासनम्॥1||

दांतकांचन चित्रांगैः वैढूर्यैश्च वरासनैः।
महार्हास्तरणोपेतैः उपपन्नं महाधनैः॥2||

तस्यचैकतमे देशे सोsग्र्यमालाविभूषितम्।
ददर्श पांडुरं छत्रं ताराधिपति सन्निभम्॥3||

जातरूप परिक्षिप्तं चित्रभानु समप्रभम्।
अशोकमालाविततं ददर्श परमासनम्॥4||

व्यालव्यजन हस्ताभि र्वीज्यमानं समंततः।
गंधैश्च विविधैर्जुष्टं वरधूपेण धूपितम्॥5||

परमास्तरणा स्तीर्ण माविकाजिनसंवृतम्।
दामभि र्वरमाल्यानां समंतादुपशोभितम्॥6||

तस्मिन् जीमूतसंकाशं प्रदीप्तोत्तमकुंडलम्।
लोहिताक्षं महाबाहुं महारजतवाससम्॥7||

लोहिते नानु लिप्तांगं चंदनेन सुगंधिना।
संध्यारक्त मिवाकाशे तोयदं सतटिद्गणम्॥8||

वृत माभरणैः दिव्यैः सुरूपं कामरूपिणम्।
स वृक्षवनगुल्माढ्यं प्रसुप्त मिव मंदरम्॥9||

क्रीडित्वोपरतं रात्रौ वराभरणभूषितम्।
प्रियं राक्षस कन्यानां राक्षसानां सुखावहम्॥10||

पीत्वाsप्युपरतम् चापि ददर्श स महाकपिः।
भास्वरे शयने वीरं प्रसुप्तं राक्षसाधिपम्॥11||

निश्श्वसंतं यथा नागं रावणं वानरर्षभः।
आसाद्य परमोद्विग्न स्सोपासर्पत्सु भीतवत्॥12||

अधाssरोहण मासाद्य रावणं वानरर्षभः |
सुप्तं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः॥13||

शुशुभे राक्षसेंद्रस्य स्वपत शयनोत्तमम्।
गंध हस्तिनि संविष्टे यथा प्रस्रवणं महत्॥14||

कांचनांगदसन्नद्धौ ददर्श स महात्मनः |
विक्षिप्तौ राक्षसेंद्रस्य भुजा विंद्रध्वजोपमौ॥15||

ऐरावत विषाणाग्रैः आपीडनकृतव्रणौ।
वज्रोल्लिखितपीनांसौ विष्णुचक्रपरिक्षितौ॥16||

पीनौ समसुजातांशौ संगतौ बलसंयुता।
सुलक्षण नखांगुष्टौ स्वंगुळीतल लक्षितौ॥17||

संहतौ परिघाकारौ वृत्तौ करिकरौपमौ।
विक्षिप्तौ शयने शुभ्रे पंचशीर्षाविवौरगौ॥18||

शशक्षतजकल्पेन सुशीतेन सुगंधिना।
चंदनेन परार्थ्येन स्वनुलिप्तौ स्वलंकृतौ ||19||

उत्तमस्त्रीविमृदितौ गंधोत्तमनिषेवितौ।
यक्ष किन्नर गंधर्व देव दानव राविणौ॥20||

ददर्श स कपिः तस्य बाहू शयनसंस्थितौ।
मंदरस्यांतरे सुप्तौ महा ही रुषिता इव॥21||

ताभ्यां परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः।
शुशुभेsचलसंकाशः शृंगाभ्यामिव मंदरः॥22||

चूतपुन्नागसुरभि र्वकुळोत्तमसंयुतः।
मृष्टान्नरससंयुक्तः पानगंधपुरस्सरः॥23||

तस्य राक्षस सिंहस्य निश्चक्राम महामुखात्।
शयानस्य विनिश्श्वासः पूरयन्निव तद्गृहम्॥24||

मुक्तामणि विचित्रेण कांचनेन विराजितम्।
मुकुटे नापवृत्तेन कुंडलोज्ज्वलिताननम्॥25||

रक्तचंदन दिग्देन तथा हारेण शोभिना |
पीनायत विशालेन वक्षसाsभिविराजितम्॥26||

पांडरेणापविद्धेन क्षौमेण क्षतजेक्षणम्।
महार्हेण सुसंवीतं पीते नोत्तमवाससा॥27||

माषरासी प्रतीकाशं निश्श्वसंतं भुजंगवत्।
गांगे महति तोयांते प्रसुप्तमिव कुंजरम्॥28||

चतुर्भिः कांचनैर्दीप्तैः दीप्तमान चतुर्दिशम्।
प्रकाशीकृत सर्वांगं मेघं विद्युद्गणैरिव॥29||

पादमूलगताश्चापि ददर्श सुमहात्मनः।
पत्नी स्स प्रियभार्यस्य तस्य रक्षःपतेर्गृहे॥30||

शशिप्रकाशवदनाः चारुकुंडलभूषिताः।
अम्लानमाल्याभरणा ददर्श हरियूथपः॥31||

नृत्तवादित्रकुशला राक्षसेंद्रभुजांकगाः।
वराभरणधारिण्यो निषण्णा ददृशे हरिः॥32||

वज्रवैढूर्यगर्भाणि श्रवणांतेषु योषितम्।
ददर्श तापनीयानि कुंडलान्यंगदानि च॥33||

तासां चंद्रोपमैर्वक्त्रैः शुभेर्ललितकुंडलैः।
विरराज विमानं तन्नभः तारागणैरिव ||34||

मदव्यायामखिन्नस्ता राक्षसेंद्रस्य योषितः।
तेषु तेष्ववकाशेषु प्रसुप्तास्तनुमध्यमाः॥35||

अंगहारैः तथैवान्या कोमलैरैर्वृत्तशालिनी।
विन्यस्त शुभसर्वांगी प्रसुप्ता वरवर्णिनी॥36||

काचिद्वीणां परिष्वज्य प्रसुप्ता संप्रकाशते।
महानदी प्रकीर्णेन नळिनी पोत माश्रिता॥37||

अन्याकक्षगतेनैव मड्डुकेनासितेक्षणा।
प्रसुप्ता भामिनी भाति बालपुत्रेन वत्सला॥38||

पटहं चारुसर्वांगी पीड्यशेते शुभस्तनी।
चिरस्य रमणं लब्ध्वा परिष्वज्येन भामिनी॥39||

काचिद्वंशं परिष्वज्य सुप्ता कमललोचना।
रहः प्रियतमं गृह्य सकामेन च कामिनी॥40||

विपंचीं परिगृह्यान्या नियता नृत्तशालिनी।
निद्रावशमनुप्राप्ता सहकांतेन भामिनी॥41||

अन्याकनकसंकाशैः मृदुपीनैः मनोरमैः।
मृदंगं परिपीड्यांगैः प्रसुप्ता मत्तलोचना॥42||

भुजपार्श्वांतरस्थेन कक्षगेण कृशोदरी।
पणवेन सहानिंद्या सुप्ता मदकृतश्रमा॥43||

डिण्डिमं परिगृह्यान्या तथैवासक्त डिण्डिमा।
प्रसुप्ता तरुणं वत्सं उपगुह्येन भामिनी॥44||

काचिदाडम्बरं नारी भुजसंयोगपीडितम्।
कृत्वा कमलपत्त्राक्षी प्रसुप्ता मदमोहिता॥45||

कलशी मपविध्यान्या प्रसुप्ता भाति भामिनी।
वसंते पुष्पशबला मालेन मदमोहिता॥46||

पाणिभ्यांच कुचौ काचित् सुवर्णकलशोपमौ।
उपगुह्याबलासुप्ता निद्रा बलपराजिता ||47||

अन्याकमलपत्राक्षी पूर्णेंदुसदृशानना।
अन्यामालिंग्य सुश्रोणीं प्रसुप्ता मदविह्वला॥48||

अतोद्यानि विचित्राणि परिष्वज्य वरस्त्रियः।
निपीड्य च कुचैः सुप्ताः कामिन्यः कामुकान् इव॥49||

तासाम् एकांत विन्यस्ते शयानां शयने शुभे।
ददर्श रूपसंपन्नां अपरां स कपिः स्त्रियम्॥50||

मुक्तामणि समायुक्तैः भूषणैः सुविभूषिताम्।
विभूषयंतीमिव तत् स्वश्रिया भवनोत्तमम्॥51||

गौरीं कनकवर्णाभां इष्टां अंतःपुरेश्वरीम्।
कपिर्मंडोदरीं तत्र शयानं चारुरूपिणीम्॥52||

सतां दृष्ट्वा महाबाहुः भूषितां मारुतात्मजः।
तर्कयामास सीतेति रूपयौवनसंपदा॥53||

हर्षेण महतायुक्तो ननंद हरियूथपः॥54||

अस्फोटयामास चुचुंब पुच्छं
ननंद चिक्रीड जगौ जगाम।
स्तंभान् आरोहान् निपपात भूमौ
निदर्शयन् स्वां प्रकृतिं कपीनां॥55||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे दशमस्सर्गः॥

|| Om tat sat ||

updated on 10122018 06:00